(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.55. अध्यायः 055
Mahabharata - Bhishma Parva - Chapter Topics
अर्जुनयुद्धवर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-55-0x(4121)(41024)
ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत।
रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥ 6-55-1(41025)
द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।
समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः ॥ 6-55-2(41026)
स लोकविदितानश्वान्निजघान महाबलः ।
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥ 6-55-3(41027)
ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥ 6-55-4(41028)
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत।
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥ 6-55-5(41029)
स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः ।
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ॥ 6-55-6(41030)
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा।
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥ 6-55-7(41031)
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् ।
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥ 6-55-8(41032)
दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा ।
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥ 6-55-9(41033)
अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ ।
शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥ 6-55-10(41034)
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा।
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ॥ 6-55-11(41035)
तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा।
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥ 6-55-12(41036)
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ ।
अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥ 6-55-13(41037)
ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम्।
पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ॥ 6-55-14(41038)
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः ।
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥ 6-55-15(41039)
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।
न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ॥ 6-55-16(41040)
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः ।
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ॥ 6-55-17(41041)
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥ 6-55-18(41042)
उद्वूतं सहसा भौमं नागाश्वरथपत्तिभिः ।
दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ॥ 6-55-19(41043)
तानि नागसहस्राणि भूमिपालशतानि च।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ 6-55-20(41044)
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः।
कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ॥ 6-55-21(41045)
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।
प्रजज्ञे भरतश्रेष्ठ सस्त्रसङ्घैः किरीटिनः ॥ 6-55-22(41046)
सादिता रथनागाश्च हताश्वा रथिनो रणे।
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥ 6-55-23(41047)
विरथा रथिनश्चान्ये धावमानाः समन्ततः ।
तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥ 6-55-24(41048)
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥ 6-55-25(41049)
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः ।
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ॥ 6-55-26(41050)
सगदानुद्यतान्बाहून्सखङ्गांश्च विशांपते ।
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥ 6-55-27(41051)
साङ्कुशाकन्सपताकांश्च तत्रतत्रार्जुनो नृणाम् ।
निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ॥ 6-55-28(41052)
परिघाणां प्रदीप्तानां मुद्गराणां च मारिष ।
प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे ॥ 6-55-29(41053)
परश्वथानां पीक्ष्णानां तोमराणां च भारत।
वर्मणां चापविद्धानां काञ्चनानां च भूमिप ॥ 6-55-30(41054)
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।
छत्राणां हेमदण्डानां तोमराणां च भारत ॥ 6-55-31(41055)
प्रतोदानां च योक्राणां कशानां चैव मारिष ।
राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥ 6-55-32(41056)
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत ।
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ॥ 6-55-33(41057)
यो यो हि समरे पार्थं प्रत्युद्याति विशांपते।
स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥ 6-55-34(41058)
तेषु विद्रवमाणेषु तव योधेषु सर्वशः।
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥ 6-55-35(41059)
तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव।
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥ 6-55-36(41060)
एष पाण्डुसुतो वीर कृष्णेन सहितो बली ।
तथा करोति सैन्यानि यथा कुर्याद्धऩञ्जयः ॥ 6-55-37(41061)
न ह्येष समरे शक्यो विजेतुं हि कथंचन ।
यथास्य दृश्यते रूप कालान्तकयमोपमम् ॥ 6-55-38(41062)
न निवर्तयितुं चापि शक्येयं महती चमूः ।
अन्योन्यप्रेया पश्य द्रवतीयं वरूथिनी ॥ 6-55-39(41063)
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते।
चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥ 6-55-40(41064)
तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ ।
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ॥ 6-55-41(41065)
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।
अवहारमथो चक्रे तावकानां महारथः ॥ 6-55-42(41066)
`ततः सरथनागाश्वा जंय प्राप्य समोपकाः।
पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः ॥ 6-55-43(41067)
प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः।
वादित्रघोषैः संहृष्टा प्रणद्यन्तो महारथाः ॥' 6-55-44(41068)
ततोऽवहारः सैन्यानां तव तेषां च भारत।
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ॥ ॥ 6-55-45(41069)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे प़ञ्चपञ्चाशोऽध्यायः ॥ ॥ इति द्वितीयदिवसयुद्धम् ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-55-8 तव पौत्रमवस्थितं इति कo घo पुस्तकपाठः ॥ 6-55-37 यथा कुर्याद्धनंजयः । धनञ्जयोऽग्निः ॥ 6-55-43 नरोति वतमानै ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.